|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.75. अध्यायः 075
Mahabharata - Udyoga Parva - Chapter Topics
भीमेन कृष्णंप्रति स्वसामर्थ्यकथनपूर्वकं स्वस्य शमकामनायाः कृपामूलकत्वकथनम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text
वैशम्पायन उवाच। 5-75-0x(3625)(34516)
तथोक्तो वासुदेवेन नित्यमन्युरमर्षणः।
सदश्ववत्समाधावद्बभाषे तदनन्तरम् ॥ 5-75-1(34517)
भीमसेन उवाच। 5-75-2x(3626)
अन्यथा मां चिकीर्षन्तमन्यथा मन्यसेऽच्युत।
प्रणीतभावमत्यर्थं युधि सत्यपराक्रमम् ॥ 5-75-2(34518)
वेत्सि दाशार्ह सत्यं मे दीर्घकालं सहोषितः।
उत वा मां न जानासि प्लवन्हृद इवाप्लवे ॥ 5-75-3(34519)
तस्मादनभिरुपाभिर्वाग्भिर्मां त्वं समर्च्छसि ।
कथं हि भीमसेनं मां जानन्कश्चन माधव ॥ 5-75-4(34520)
ब्रूयादप्रतिरूपाणि यथा मां वक्तमर्हसि ।
तस्मादिदं प्रवक्ष्यामि वचनं वृष्णिनन्दन ॥ 5-75-5(34521)
आत्मनः पौरुषं चैव बलं च न समं परैः ।
सर्वथाऽनार्यकर्मैतत्प्रशंसा स्वयमात्मनः ॥ 5-75-6(34522)
अतिवादापविद्धस्तु वक्ष्यामि बलमात्मनः ।
पश्येमे रोदसी कृष्ण ययोरासन्निमाः प्रजाः ॥ 5-75-7(34523)
अचले चाप्रतिष्ठे चाप्यनन्ते सर्वमातरौ ।
यदीमे सहसा क्रुद्धे समेयातां शिले इव ॥ 5-75-8(34524)
अहमेते निगृह्णीयां बाहुभ्यां सचसाचरे ।
पश्यैतदन्तरं बाह्वोर्महापरिघयोरिव ॥ 5-75-9(34525)
य एतत्प्राय मुच्येत न तं पश्यामि पुरूषम्।
हिमवांश्च समुद्रश्च वज्री वा बलमित्स्वयम् ॥ 5-75-10(34526)
मयाभिपन्नं त्रायेरन्बलमास्थाय न त्रयः ।
युद्धार्हान्क्षत्रियान्सर्वान्पाण्डवेष्वाततायिनः ॥ 5-75-11(34527)
अधः पादतलेनैतानधिष्ठास्यामि भूतले ।
न हि त्वं नाभिजानासि मम विक्रममच्युत ॥ 5-75-12(34528)
यथा मया विनिर्जित्य राजानो वशगाः कृताः ।
अथ चेन्मां न जानासि सूर्यस्येवोद्यतः प्रभाम् ॥ 5-75-13(34529)
विगाढे युधि संबाधे वेत्स्यसे मां जनार्दन ।
परुषैराक्षिपसि किं व्रणं सूच्येव चानघ ॥ 5-75-14(34530)
यथामति ब्रवीम्येतद्विद्धि मामधिकं ततः ।
द्रष्टासि युधि संबाधे प्रवृत्ते वैशसेऽहनि ॥ 5-75-15(34531)
मया प्रणुन्नान्मातङ्गात्नथिनः सादनस्तथा ।
तथा नरानभिक्रुद्धं निघ्नन्तं क्षत्रियर्षभान् ॥ 5-75-16(34532)
द्रष्टा मां त्वं च लोकश्च विकर्षन्तं वरान्वरान् ।
न मे सीदन्ति गात्राणि न ममोद्वेपते मनः ॥ 5-75-17(34533)
सर्वलोकादभिक्रुद्धान्न भयं विद्यते मम।
किं तु सौहृदमेवैतत्कृपया मधुसूदन ।
सर्वांस्तितिक्षे संक्लेशान्मा स्म नो भरता नशन् ॥ ॥ 5-75-18(34534)
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि पञ्चसप्ततितमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-75-1 समाधावत् तीव्रवेगं यथा स्यात्तथा ॥ 5-75-3 ह्रदे प्लवन् पारमिवेति शेषः ॥ 5-75-14 संबाधे संकीर्णे ॥ 5-75-15 वैशसे विशसनवति ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|